SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ॥१०६॥ धर्म. स्वसामर्थ्यं विना वादं, यः कुर्यान्महता सह । स विनश्यति वेगेन, वदन्ति विबुधा इति ॥ ५८ ॥ पश्चाद्याहि ततोऽहं तु, यास्यामि किल सागरम् । तैलबिन्दु न दास्यामि, वृथा भोः खिद्यसे कथम् ? ॥ ५९ ॥ कितवः स्माह रे दीप !, किं जल्पसि पुनः पुनः । तत्र तत्रागमिष्यामि, यत्र यत्र गमष्यसि ॥ ६० ॥ किं दुःसाध्यं सत्त्ववतां, दुस्तरो न महोदधिः । मेरुरुच्चैस्तरस्तावन्नारोद्यावदुद्यमी ॥ ६१ ॥ विवादं कुर्धतोरेवं, तयोर्मार्गे च गच्छतोः । जगाम सकला रात्रिरुदयं प्राप भास्करः ॥ ६२ ॥ सूर्यकान्त्या गतोद्योतो, दीपो घनवने क्वचित् । वञ्चयित्वा धूर्त्तदृष्टिमदृष्टीभूय संस्थितः ॥ ६३ ॥ | कितवोऽचिन्तयत्तावत्, यावद्दीपं ददर्श न । मामप्यहो वञ्चयित्वा गतो गृहमणिः कचित् ॥ ६४ ॥ धूर्त्तोऽहं वञ्चितोऽनेन, सत्यञ्च स्ववचः कृतम् । सबला दैवी शक्तिर्लोकोक्तिरिति नान्यथा ॥ ६५ ॥ शिक्ककात्पतितो ह्येोतुर्यथभ्रष्टो यथा मृगः । घातभ्रष्टो यथा शूरस्तालत्यक्तो यथा नटः ॥ ६६ ॥ अच्युतः सत्पुरुषः सत्यात्, शाखाभ्रष्टो यथा कपिः । यथा स्फालच्युतः सिंहः, कितवः खेदभाक् तथा ६७ युग्मम् ॥ Jain Education Int For Private & Personal Use Only महा. ॥१०६॥ inelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy