________________
किन्तु मद्भयभीतोऽसौ, दीपो याति गृहाबहिः। रूक्षान्पूपान् कथं भुझे, मत्तो दीपः क्व यास्यति ? ॥१७॥ विचार्यैवं ततो दीपपृष्ठे लग्नः स निर्ययौ । दीपं प्रति जगादेवमरे त्वं व प्रयास्यसि ? ॥४८॥ यत्र यास्यसि तत्राहमागमिष्यामि पृष्ठतः । तव तैलं हि गृह्णामि, भोक्ष्ये पूपानहं ततः॥ ४९॥ .. इत्थं वदन्नसौ दीपपृष्ठलग्नो ययौ द्रुतम् । यत्र यत्र व्रजेद्दीपस्तत्र तत्राप्ययं भ्रमेत् ॥ ५॥ मुखे पुनर्वदत्येवं, तिष्ठ तिष्ठ प्रदीप भोः । कथं कातरवद्यासि, प्रणष्टस्तेजसान्वितः ॥ ५१ ॥ तदा देवीप्रभावेण, प्रोचे दीपोऽपि रे शृणु । किञ्चिन्मयाऽस्ति देयं ते, पृष्ठौ लग्नोऽसि किं मम ?॥५२॥ रे कुमानुष रे धूर्त, रूक्षान् भक्षय पूपकान् । अपि वादितटे यामि, तलं दास्यामि नो परम् ॥५३॥ तदा द्यूतकरोऽवादीत, भो भो गेहमणे ! शृणु । अहं सत्यं कपित्थो न, यो वातेन प्रपात्यते ॥ ५४॥ कूपपारापतो नाहं, मठपारापतोऽपि न । प्रतिच्छन्देन ये भीता, नश्यन्ति मठकूपतः ॥ ५५ ॥ इति श्रुत्वाऽब्रजद्दीपः, क्षणं नैव प्रतीक्षते । कितवः पृष्ठसंलग्नः, शीघ्रगत्या चचाल च ॥ ५६ ॥ ॥ ततो दीपः पुनःप्रोचे, रे जनाचारवर्जित !। मूर्ख ! नो वेत्सि किं नृणां, सत्त्वं देवैः समं भवेत् ? ॥५७॥
Jain Education in
For Private & Personal Use Only
Plainelibrary.org