________________
धर्मदत्तं दीनारलक्षं तकितवाय जनैस्तदा । ततस्तद् द्यूतकारेण, व्यसनेन विनाशितम् ॥ ३७ ॥ महा. ॥१०॥ यतः-वेश्यासक्तस्य चोरस्य, द्यूतकारस्य पापिनः । अन्यायोपार्जकस्यैव, पुंसो लक्ष्मीः स्थिरा नहि ३८ दिनेनेकेन तेनापि, लक्षं लब्धं विनाशितम् । द्यूतं वेश्या विवादश्च, विपरीते विधौ खलु ॥ ३९ ॥
यतः-कौपीनवासास्तरताऽवकीर्णः, कपालपाणिविरसानभोजी।
द्यूतक्रियां चण्डिकयाहतो यः, स्यादीश्वरः श्रीरहितोऽपि मर्त्यः ॥ ४०॥ कितवः पूर्वयुक्त्यैव, निश्यागत्य सुरीगृहे । भक्षयेत्सर्वदा पूपान्, ततो देवी व्यचिन्तयत् ॥४१॥ कथं निवारयाम्येनं, किं वोपायं करोम्यहम् । अग्रे विडम्बिताऽनेन, चिन्ता मे महती हृदि ॥ ४२ ॥ हुं ज्ञातं च मयोपायो, लब्धो दिव्यानुभावतः । अस्यागमनवेलायां, दीपो निष्कास्यते बहिः ४३॥ गते दीपे कुतस्तैलं, भयं चास्य भविष्यति । ध्यात्वैवं सा स्थिता यावत्तावत् कितव आगतः ॥४॥१०॥ दीपं प्रति गतो यावत्तावद्दीपो विनिर्गतः । तदा चकितचित्तोऽयं, कितवो हृद्यचिन्तयत् ॥ ४५ ॥ अहो दीपः कथं याति, गगने चन्द्रबिम्बवत् । मां वा भापयते देवी, किं भयं निर्भयस्य मे ? ॥४६॥
Jain Education
o
n
For Private & Personal Use Only