________________
शान्तिकं पौष्टिकं तेऽथ, जपजागरणादिकम् । चक्रुहोमविधानञ्च, सर्व जातं हि निष्फलम् ॥ २६ ॥ यत्कृतं तेन निष्ठ्यूतं, तस्माजिह्वां न गोपयेत् । तत्कारणं न को वेन्ति, पुनः पौरा मिथो वचः ॥ २७ ॥ अहो उत्पात एषोऽत्र, दृश्यते सबलः खलु । अथ विघ्नस्य शान्त्यर्थं, वाद्यते डिण्डिमं पुरे ॥२८॥ योऽत्र धीमान्पुमान्कोऽपि, सङ्गुप्तरसनां सुरीम् । करोति लक्षदीनारा, दीयन्ते तस्य निश्चितम् ॥२९॥ पटहोद्घोषणामेवं, श्रुत्वा द्युतकृताऽमुना । स्पृष्टः पटह इत्युक्त्वा, रसज्ञां गोपयाम्यहम् ॥ ३० ॥ जनैर्देव्यालये नीतो, द्वारं दत्त्वा स मध्यगः । देवीं प्रति जगादेवं, जिहां निष्कास्य किं स्थिता ? ॥३१॥ मत्कृतं नैव जानासि, कुर्वेऽहं तद्विलोकय । इत्युक्त्वा लोष्टमुत्पाद्य, दुष्टो देव्याः पुरोऽवदत् ॥ ३२ ॥ रण्डे चण्डे ! त्वमात्मानं, विडंबयसि किं वृथा ?। जिहां गोपय मूर्ति ते, चूर्णयाम्यन्यथाऽधुना ॥३३॥ इत्युदित्वा दृषत्खण्डं, तुण्डे यावद्विमुञ्चति । तावश्यचिन्तयश्चित्ते, सा प्रचण्डापि चण्डिका ॥३४॥ निःशूकोऽयमनर्थ हि, करोति क्रियतेऽस्य किम् ? । ततो झटिति सा देवी, स्वरसज्ञामगोपयत् ॥३५॥ तदाऽथ मुदिता लोका, गतचिन्ताभयासुखाः। कितवञ्च प्रशंसन्ति, जने जातो जयारवः ॥३६॥
Jain Education
Xonal
For Private
Personal Use Only
O
jainelibrary.org