SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ॥१०४|| किं न श्रुतं त्वया पूर्व, लोके कूञ्चचनं महत् । न संतोषं विना सौख्य, दुःखं लौल्यं विना न हि ॥१५॥ अहं पूपं न दास्यामि, जिहां गोपय वा न वा । यदा नागोपयजिह्वां तदोचे कितवः पुनः ॥ १६ ॥ | र त्वं मे भोजने लुब्धा, पश्येदानीं ददामि यत् । निश्शूकेन ततो देव्या, जिह्वायां तेन थूकतम् ॥१७॥ विलक्षाऽभूत्सुरी जिह्वां, नापवित्रां मुखेऽक्षिपत् । लोकोक्तिरित्यभूत्सत्या, यद्देवादानवो बली ॥१८॥ प्रभातमथ सञ्जातमागतश्चार्चकस्तदा । तथाभूतां सुरी वीक्ष्याचिन्तयत् किमिदं नवम् ? ॥ १९॥ प्रकृतेविकृतिश्चेत्स्यादेतदुत्पातकारणम् । बर्हिनिष्कासिता जिह्वा, न भव्या चापि कौतुकम् ॥ २० ॥ कृत्वा दृढं कपाटं स, वलितःशीघ्रमर्चकः । नगरे नागराग्रे च, देवीवार्ती न्यवेदयत् ॥ २१ ॥ श्रुत्वा ते तादृशं वाक्यमसंभाव्यं हि मेनिरे । गत्वा व्यलोकयद्यावदृष्टं तत्कौतुकं तदा ॥ २२ ॥ कथयन्ति स्म ते पौरा, इदं ह्यदृष्टपूर्वकम् । उत्पातो जायते लोके, विपरीते सदा ध्रुवम् ॥ २३ ॥ देवीवक्त्राइहिर्दृष्ट्वा, रसनामतिभीषणाम् । नष्टा लोकाः क्षणात्केचिद्भीरवो भयविह्वलाः ॥ २४ ॥ प्रधानपुरुषा ये च, नगरे येऽधिकारिणः । धीरास्तत्र स्थिता ऊचुर्देवीकोपोऽभवत् खलु ॥ २५ ॥ ॥१०४॥ Jain Educator For Private & Personel Use Only Y ujainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy