SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ नामतो नरवश्चाख्यो, रमन्द्यूतं दिने दिने । लक्षद्रव्यं व्ययत्येष, लोभतो रमते सदा ॥ ४ ॥ स कदा हारयेन्नैव, दैवतो वर ईदृशः । कदापि हारयेत्किञ्चित्, तद्दम्मांशं तृतीयकम् ॥ ५ ॥ स पुनर्व्यसनासक्तो वेश्यागेहेषु तद्धनम् । मूढो निर्गमयत्युच्चैः स्वेच्छया च पिबेत्सुराम् ॥ ६ ॥ | नित्यं मद्यकृतां कुटयां, पार्क निष्पाद्य पूपकान् । लात्वा च चण्डिकागेहे, याति रात्रिसमागमे ॥७॥ सा चण्डी रौद्ररूपा च दुर्निरीक्ष्या दुराशया । तस्या अङ्के स निःशुकः, पादं विन्यस्य पापधीः ॥८॥ द्वितीयं चरणं तस्या, देव्याः स्कन्धे विमुच्य सः । पूपानभक्षयद्दीपतैलेन सह निर्भयः ॥ ९ ॥ युक्तोऽनया सदा भुङ्क्ते, स पूपान् तैलमिश्रितान् ! तदा चण्डिकयाऽचिन्ति, दर्शयाम्यस्य वैभवम् ॥ १० ॥ विकास्य वदनं देवी, जिह्वां निष्कास्य च स्थिता । द्यूतकारस्तदा देव्याः, पूपखण्डं मुखेऽक्षिपत् ॥ ११ ॥ गिलित्वा तत्पुनर्देवी, तेनैव विधिना स्थिता । पुनर्ददौ पूपखण्डं, गिलित्वा सा तथा स्थिता ॥ १२ ॥ रुष्टोऽवादीत्स रे रण्डे ! जिह्वां निष्कास्य किं स्थिता । त्वं दर्शयसि मे भीतिमहं तु भयवर्जितः ॥ द्विर्वारं पूपके दत्ते, जिह्वां क्षिपसि नो मुखे । लुब्धकेभ्यो जनेभ्यो हि, न दत्ते कोऽपि किञ्चन १३ ॥ ॥ Jain Educatic! national For Private & Personal Use Only १४ ॥ www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy