________________
॥१०॥
इत्थं नृपैः सेवितपादपद्मः, करोति राज्यं प्रबलं स्वपुण्यात् । श्रीरत्नपालो नरनायकोऽयं, सत्तेजसा | महा.
राजति रत्नवत् यः॥ ५७ ॥ इति श्रीवीरदेशनायां श्रीधर्मकल्पद्रुमे चतुःशाखिके द्वितीयशीलशाखायां श्रीरत्नपाल
शृङ्गारसुन्दर्याख्याने चतुर्थः पल्लवः समाप्तः॥४॥ तृष्णां छिन्धि भज क्षमां कुरु दयां पापे रतिं मा कृथाः, सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम् । मान्यान्मानय विद्विषोऽप्यनुनय प्रच्छादय स्वान् गुणान् , कीर्ति पालय दुःस्थिते कुरु दयामेतत्सतां
चेष्टितम् ॥१॥ शीलं दुर्गतियायिनामशकुनः शीलं सुभोगाङ्कुरः, शीलं कामशुकस्य पञ्जरनिभं शीलं भवोष्माम्बुदः। शीलं जन्मसरोविभूषणपयोजाली श्रियामास्पदं, पाल्यं शीलमिदं गुणाम्बुधिसमुल्लासेन्दु-18
बिम्बोपमम् ॥२॥ अथ तत्र पुरे कोऽपि, कितवः कृपयोज्झितः। सत्यशौचविरक्तोऽभूद्रक्तः कपटकोटिषु ॥ ३ ॥
31
॥१०॥
JainEducational
For Private Personal use only
Mw.jainelibrary.org