SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ कुवस्त्रं मलिनं दीनं, दुर्बलाङ्गश्च तं नरम्। दृष्ट्वा प्रोवाच भूपालः, किमयुक्तं ब्रवीष्यदः ? ॥ ७९ ॥ दरिद्रसदृशं रूपं, दुरवस्था लवेदृशी। स्ववपुश्चेष्टया भद्र,? विमृश्येव तदुच्यते ॥ १८० ॥ यतः-कुचेलिनं दन्तमलावधारिणं, बह्वाशनं निष्ठुरवाक्यभाषिणम् । सूर्योदये चास्तमने च शायिनं, विमुञ्चति श्रीर्यदि चक्रपाणिनम् ॥ ८१ ॥ सुजीर्णमन्नं सुविचक्षणः सुतः, सुराधिता श्रीनृपतिः सुसेवितः । सुचिन्त्य चोक्तं सुविचार्य यत्कृतं, तहीर्घकालेऽपि न याति विक्रियाम् ॥ ८॥ भवादृशां गृहे स्वर्णपुरुषो यदि विद्यते । तदाश्चर्यमिदं लोके, दृश्यते विपुलं किल ।। ८३ ॥ स नरःप्राह दे स्वामिन् !शोभनं शृणु मे वचः। ये श्रियाऽलङ्कत्ताः सन्ति, शोभन्ते ते दिवानिशम्॥८४il श्रीरहिता नरा ये च, दरिद्रालङ्कृताश्च ये । तेषामेव दशा देहे, दुर्वाच्या भवतीदृशी ॥ ५ ॥ उक्तञ्च-दरिद्राधिगमे जीव-देहस्थाः पञ्चदेवताः। सद्यो निर्गत्य गच्छन्ति, श्रीहीधीकान्तिकीर्तयः॥८६॥ अन्यच्च-शीलं शान्तयति श्रुतं शमयति प्रज्ञां निहन्त्यादरात , दैन्यं दीपयति क्षमा क्षपयति ब्रीडामपि Jain Education a nal For Private & Personal Use Only O w.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy