SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ॥१०२॥ तदाशु रत्नपालेन, रसेन तिलकं कृतम् । युध्यमाना जिताः सर्वे, भटाश्च खेचराधिपाः ॥ ४२ ॥ सर्व्वे तिलकमाहात्म्यात्, निजाज्ञापालकाः कृताः । सुगन्धवल्लभेनाशु, विधिना स विवाहितः ॥ ४३ ॥ हेमाङ्गदेन दत्तास्तास्तस्मै विद्याश्च षोडश । रोहिणीप्रमुखास्तेन, साधिताः स्वल्पवासरैः ॥ ४४ ॥ वैताढ्ये चोभय श्रेण्योर्जिताः सर्व्वेऽपि खेचराः । महावलसुते द्वे ते, तथा सौभाग्यमञ्जरी ॥ ४५ ॥ एवं पत्नीत्रयं नीत्वा स विद्याधरसेवितः । दिव्यं विमानमारुह्य, संप्राप्तः स्वपुरं ततः ॥ ४६ ॥ काव्यम् - पुरप्रवेशो महतोत्सवेन, मन्त्रयादिभिः कारित ईश्वरस्य । गायन्ति रामा निजगेहगेहे, प्रभौ समेते त्रिवधूयुतेऽस्मिन् ॥ ४७ ॥ प्रियाभिः सह सेवे स (सेवते साकं) स्वर्गभोगसमं सुखम् । निरातङ्कं निजं राज्यं, पालयामास ॥ ४८ ॥ Jain Educationtional काव्यम् - अथान्वहं तस्य नृपस्य हेम्नो, व्ययो भवेत् यः परिकीर्त्यते सः । कथा पूर्वी सरसां वदेद्यः, स लक्षमेकं लभते सुवर्णम् ॥ ४९ ॥ For Private & Personal Use Only महा. ॥१०२॥ www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy