________________
तद्विना सा महादुःखात्सरसाहारवर्जिता । आचाम्लनिर्विकृत्यादितपसाङ्गं कृशं व्यधात् ॥३१॥ पृष्टो नैमित्तिको राज्ञा, वलयं क चटिष्यति? । तेनोक्तं त्वं नराधीश ! सत्यं शृणु वचो मम ॥३२॥ नरो वलयहर्ता स, तव पुत्र्याः स्वयंवरे । मण्डपे मण्डलाधीशः, स्वयमेवागमिष्यति ॥ ३३ ॥ विवाहं चापि ते पुत्र्याः, करिष्यति न संशयः । इत्थं ज्ञानिवचः श्रुत्वा, कृतो राज्ञा स्वयंवरः ॥३४॥ आहूताः खेचराः सर्वे, स्वयंवरणमण्डपे । सुगन्धवल्लभेनाथाकारितश्च महाबलः ॥ ३५ ॥ संप्राप्तः सोऽपि वेगेन, रत्नपालसमन्वितः । वलयाऽलङ्कृतं रत्नपालं कन्या ददर्श सा ॥३६॥ निजनामाङ्गिन्तं दृष्ट्वा, वलयं स वृतो वरः। उपलक्ष्य रत्नपालं, हृष्टा हेमाङ्गदादयः ॥ ३७॥ तदाऽन्ये खेचराः सर्वे, मिथस्ते व्यमृशन्निति । पश्यतां खेचरौघानां, खेचर्या भूचरो वृतः ॥ ३८॥ अयुक्तमेतदत्राभूजलोत्तारस्तु नोऽभवत् । यदेषोऽस्मासु पश्यत्सु, भूचरः परिणेष्यति ॥ ३९ ॥ एवं विमृश्य संभूय, तेऽथ सर्वे रुषारुणाः । जाता युद्धाय सन्नद्धा, रत्नपालं वभाषिर ॥ ४४०॥ अरे अज्ञान बालस्त्वं, तव कालः समागतः । भवता भूमिचारेण, वृता विद्याधरी कथम् ? ॥ ४१ ॥
Jain Educa
t
ional
For Private & Personal Use Only
O
ww.jainelibrary.org