SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ । 4.महा ॥१०॥ धर्मभृतादयो दुष्टदेवा, ग्रहनक्षत्रतारकाः । ते सर्वे वशमायान्ति, रसस्पर्शप्रभावतः ॥ २१॥ प्रशाम्यति महानग्निर्विषे स्थावरजङ्गमे । व्याधयो रसछण्टाभिर्यान्ति सर्व वशीभवेत् ॥ २२ ॥ कृते तिलकमात्रेऽपि, रसेन रणभूमिः । शत्रवो मित्रतां यान्ति, शान्ताः स्युः सिंहहस्तिनः ॥ २३ ॥ इत्यादि बहुधा ज्ञेयः, सप्रभावो महारतः । पूर्वपुण्यैस्त्वया प्राप्तो, मया दत्तश्च गृह्यताम् ॥ २४ ॥ स्मर्त्तव्यः समये चाहमित्युक्त्वा स तिरोदधे । दृष्ट्वा सुरस्य सान्निध्यं, चमचक्रे महाबलः ॥ २५॥ विमाने स्वसुतायुग्मं, नृपं चारोप्य खेचरः । गते वेगेन वैताट्ये, सुते । स विवाहितः ॥ २६ ॥ श्रीरत्नपालो नृपतिः स धन्यः, कन्याद्वयं तत्परिणीय तत्र । स्थितो महासौख्यभरं बुभोज, विद्या धरैः सेवितपादपद्मः॥ २७॥ तदा श्रीगगनपुरे, राजा सौगन्धवल्लभः । हेमाङ्गदोऽस्य पुत्रोऽस्ति, सुता सौभाग्यमञ्जरी ॥ २८॥ सा च यौवनसम्पन्ना, निष्पन्ना नरमोहना। कुलदेवी ददौ तस्यै, वलयं सर्वकामदम् ॥ २९ ॥ तस्या जिनालयेऽन्येयुर्वने क्वापि निशाभरे । सखीभिः सह नृत्यन्त्याः, पतितं वलयं करात् ॥४३०॥ ܀܀܀܀܀܀܀܀܀܀܀ Jain Edutan For Private & Personal Use Only XI ainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy