SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ॥१०॥ धर्म. आवां ते नागिलेनाथ, खेचरेण दुरात्मना । हृत्वाऽत्र द्रुतमानीते, कृतं सौधन्तु विद्यया ॥ ९९ ॥ यदि क्वापि बहिर्याति, तदावां भस्मसात्करेत् । आगतो रससेकेन, पुनः सज्जीकरोति सः ॥ ४००॥ । अस्मत्स्वरूपमेवं ते, कथितं हे नरोत्तम !। पूर्वपुण्यानुभावेनास्माकञ्च तव दर्शनम् ॥ १ ॥ अथ तेषां मिथो जातोऽनुरागःस्नेहवार्तया । प्रायः प्राग्भवसंबन्धो, मनोमोहनकारणम् ॥ २॥ यतः-ए नयणां जाई सरइ, पुष्वभव सवरन्ति । अप्पिय दिइ मुह लीयइ, पिय दिइ विहसन्त ॥३॥ अत्रान्तरे स विद्याभृद्, हर्षपूरितमानसः। लात्वा विवाहसामग्री, यावत्तत्रागतो द्रुतम् ॥ ४॥ तावता हस्तिना तेन, तत्रागत्य स खेचरः। गृहीतः शुण्डयाऽऽकाशे, स चोत्पपात लीलया ॥ ५॥ पातयित्वाऽकरोद्भमौ, दन्तघातैः स पीडितः। एवं व्यापादितः कष्टं, गजराजेन नागिलः ॥ ६॥ अस्मिन्नवसरे पुत्रीशुद्धिकर्व्वन्महाबलः । तत्र भ्रमभ्रमन्नागात्पुत्र्यौ द्वे ते ददर्श च ॥ ७ ॥ स्वपुत्रीसंयुतं रत्नपालं दृष्ट्वा जहर्ष तः । ऊचे च मधुरां वाणी, शृणु सात्त्विकशेखर ! ॥ ८॥ पुरैकदा मया पृष्टः, एको नैमित्तिको वरः । मत्पुत्र्योः को वरो भावी ? तेनेदं कथितं वचः ॥ ९॥ .. .. ॥१०॥ .. .. Jain Educational For Private Personal Use Only HNw.jainelibrary.org.
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy