________________
न तिष्ठति करी क्वापि, व्योम्नि दूरे गतः कियत् । तदा चिन्तातुरो भूपोऽपतत्कापि सरोवरे ॥ ८८ ॥ जलमुत्तीर्य सेतो स, गतोऽग्रे तावदीक्षितम् । हेमरत्नमयं सौधं, साश्चर्य च सुतोरणम् ॥ ८९॥ | विनोदाय गतो मध्ये, सुसौधे सप्तभूमिके । तत्र चन्द्रशिलायां दौ, भस्मपुजौ ददर्श सः ॥ ३९० ॥ तदने कुंपकश्चैको, गजदन्तेऽवलम्बितः । दृष्टो रसभृतो राज्ञा, हृदि चैवं व्यचिन्तयत् ॥ ९१ ॥ उत्तमं दिव्यसौधति, कोऽसौ वा रसकुम्पकः । भस्मपुञ्जौ च कावेतौ ? कौतुकं दृश्यसे महत् ॥ ९२ ॥ कौतुकाद्रसबिन्दून्स, करे कृत्वा व्यलोकयत् । पतिता बिन्दवस्तावद्भस्मपुञ्जद्वयोपरि ॥ ९३ ॥
स्मपुखद्वयोत्पन्ने, दिव्यरूपधरे स्त्रियौ । तदा दृष्ट्वा नृपः प्रोचे, के युवां भस्मसंभवे ? ॥ ९४ ॥ कि शक्ती स्वयमुत्पन्ने, किङ्किनौँ च देवते। खचय्यौँ किञ्च भूचरयौं, नायौँ किङ्कथ्यतामृतम् ? ॥१५॥ तयोरेकाऽवदत् स्वामिन्नस्मद्वाता विनोदिनीम् । शृणु श्रुत्वा यथा याति, संशयस्तव चेतसः ॥१६॥ वैताढ्ये वरचन्द्रायां, पुर्यो स्वामी महाबलः। विद्याधरप्रिया प्रेमवत्येतयोः सुते उभे ॥ ९७॥ यत्नवल्लीमोहवल्लीसंज्ञके ते उभे अपि । तातेन पाठिते ताभ्यां, संप्राप्तं यौवनं क्रमात् ॥ ९८॥
Jan Education
For Private
Personel Use Only
rainelibrary.org