SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ देवो मित्रमभूततोऽस्य बलतः कुर्वन्ति सेवां नृपा, अन्येऽपि प्रबलास्तदा हि मिलिता लोका इति प्रोचिरे ॥ ७८॥ हृष्टचित्ता तदा जाता, सती शृङ्गारसुन्दरी । महातपः प्रकुर्वन्ती, दृढा ब्रह्मव्रते निजे ॥ ७९ ॥ पतिं दृष्ट्वा तदा चक्रे, विकृत्यादेः सुपारणम् । सुशृङ्गारा पुनः पट्टराज्ञी सा स्थापिता सती ॥ ३८० ॥ देवसांनिध्यतो राज्ञाप्यनम्राः सर्वभूभुजः। नामिता निजपादाने, चक्रे राज्यन्त्वकण्टकम् ॥ ८१॥ सुवर्णरत्नकोटीनां, शतसप्तकसङ्ख्यया । नृपगेहेऽकरोद्देवो, वृष्टिं पुण्यात्सुरा वशाः ॥ ८२॥ इत्यमेकातपत्रत्वं, प्राज्यं राज्यं प्रपालय । एवं राज्ञे वरं दत्त्वा, देवो देवालयं ययौ ॥ ८३॥ रत्नपालनरेन्द्रोऽश्र, पूर्वपुण्यानुभावतः । इन्द्रराज्यसमं राज्यं, पालयामास धर्मधीः॥ ८४ ॥ एकदा च सभासीनो, राजा केन नरेण तु । विज्ञप्तो विनयाद्देवागतोऽस्त्येको गजो वने ॥ ८५ ॥ प्रेषिताः सुभटा राज्ञा, यत्रास्ति वनवारणः । गृहीत्वा गजराजस्तैौकितो नृपतेः पुरः॥८६॥ ततो राजा गजारूढो, ययौ यावदनं प्रति । तावता व्योममार्गेणोत्पपात नृपयुग्गजः ॥ ८७ ॥ ॥ २९॥ Jain Education in a For Private Personel Use Only Shainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy