SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ॥९८॥ धर्म.. इत्थं स्तुत्वा जगन्नाथमादिनाथं जिनेश्वरम् । मन्यमानः सनाथं स्वं, वलितो नृपतिर्यदा ॥१९॥ सौभाग्यमञ्जरीनामसंयुतं वलयं तदा । दृष्टैकं मण्डपे राजा, गृहीत्वा करके ययौ ॥ ३६० ॥ सौभाग्यमञ्जरी कासौ, लब्धं यद्वलयं मया । एवं चिन्तयतो राज्ञो, विभाता यामिनी चिरात् ॥६१ प्रातश्चचाल सेनायुक्, स्वदेशान्तर्गतो रयात् । जयस्य प्रेषितो दूतः, पाटलीपुरपत्तने ॥६॥ तेनोक्तं हे जयामात्य ! तव स्वामी समागतः । त्वङ्गत्वा संमुखो राज्यढौकनेन भजस्व तम् ॥ ६३ ॥ क्रोधी मानी जयोऽवादीत, कःस्वामी कस्तु सेवकः । वीरभोग्याधरेत्युक्त्वाययौ युद्धाय संमुखः॥४॥ जातं युद्धं तयोपोरं, भग्नं सैन्यं जयस्य च । क्षुद्रचित्तो जयोऽमुञ्चन्निद्राऽवस्वापिनी ततः ॥६५॥ निद्रया घूम्मितान् दृष्ट्वा, स्वभटान्प्रबलानपि । रत्नपालोऽपि भूपालस्तदा चिन्तातुरोऽभवत् ॥६६॥ इतश्चाराधना यस्य, राज्ञा दत्ता पुरा वने । स वृद्धश्रावको मृत्वा, समुत्पन्नः सुरालये ॥ ६७ ॥ सोऽवधिज्ञानतो ज्ञात्वा, राज्ञश्चिन्तां समागतः । प्रकटीभूय चावादीदेसि मां रत्नपाल ! भोः॥६॥ रत्नपालः सचिन्तत्वाददृष्टसुरदर्शनात् । नोपलक्षति तं तेन, न किञ्चिदुत्तरं ददौ ॥ ६९ ॥ ॥९८॥ Jain Education IndMinal For Private Personal Use Only Alainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy