________________
सर्वप्राणिषु निष्कषायहृदयः कृत्वा त्रिधा क्षामणां,
धन्यः पञ्चनमस्कृतिस्मृतिपरः कोऽप्युज्झति खान्तनुम् ॥२८॥ शुभध्यानधरो भूत्वा, मृत्वा श्राद्धः सुरोऽभवत् । कृतस्तस्याङ्गसंस्कारो, राज्ञोपकृतिकारिणा ॥ २९ ॥ यतः-उपकारकराः प्रायोऽविरला एव सज्जनाः । उपकारमानिनस्तु, परं सन्ति न सन्ति वा ॥३३०॥ रत्नपालस्ततः पूर्वदेशं प्रति कियद्ययौ । अग्रे नगरमद्राक्षीत्साक्षाद्देवपुरं परम् ॥ ३१॥ यावन्मनोहरे तस्मिन्नगरे प्रविवेश सः । पटहोद्घोषणा काचित्तावच्छृत्वा च दूरतः ॥ ३२ ॥ तच्छ्रुत्वा रत्नपालेन, पप्रच्छे कोऽपि पुरुषः। पटहो वाद्यते कस्माचतोऽवादीन्नरोऽपि सः ॥ ३३ ॥ अस्त्यत्रैव पुरे राजा, बलवाहननामतः । तस्य रत्नवती कन्या, धन्या नारीजनेऽखिले ॥ ३४॥ यौवने सा समायाता, गता चाद्य सरोवरे । तत्र कृत्वा जलक्रीडां, विनोदाय वनेऽविशत् ॥ ३५॥ रममाणा सखीयुक्ता, वने सा दैवयोगतः। दष्टा दुष्टेन सर्पण, वेगेन प्राविशत् पुरे ॥ ३६ ॥ उपाया बहवो राज्ञा, विषनाशाय कारिताः। मन्त्रौषधैर्गुणो नासीद्विषेणात्यन्तघारिता ॥ ३७ ॥
Jain Education in
a
For Private Personel Use Only
jainelibrary.org