________________
धर्मदीनाननं गलन्नेत्रं, पवित्रं धर्मकर्मभिः । सुभावं श्रावकं ज्ञात्वा, वैदेशिकमरक्षकम् ॥ ३२० ॥ ॥९॥ अयङ्किलान्तिमावस्थां, संप्राप्त इति दृश्यते । विचिन्त्येवं रत्नपालः, कृपालुस्तमपालयत् ॥ २१ ॥
युग्मम् ॥ पुण्यबुध्ध्या ततस्तस्य, ददौ चाराधनामपि । क्षमयस्वाङ्गिनः सर्वान, स्मर पञ्चनमस्कृतिम् ॥ २२ ॥ अर्हसिध्धौ मुनीन् धर्म, चतुरः शरणं श्रय । श्रीसम्यक्त्वं तथा शीलं, भजस्व त्वं सुभावतः ॥२३॥ कलत्रे पुत्रमित्रेषु, बन्धौ धान्ये धने गृहे । अन्वेष्वपि ममत्वं यत्तत्सर्वं सांप्रतं त्यज ॥ २४॥ देहो गृहं कुम्टुबं श्रीः, सर्वं सुलभमाप्यते । अर्हदुक्तः सुधर्मोऽयं, दुर्लभो भुवि देहिनाम् ॥ २५ ॥ उपरोधभयक्रोधलोभक्षोभकुतूहलैः । यन्मिथ्या गदितं तत्ते, मिथ्याऽस्त्वालोचनादितः ॥ २६ ॥ जीवितव्यञ्च मृत्युञ्च, द्वयमाराधयन्ति ये । त एव पुरुषाः शेषः, पशुरेव जनः पुनः ॥ २७ ॥
यतः-त्यक्त्वा बन्धुजनादि निर्मलमना गृह्यन्तिमालोचना
मुच्चार्य व्रतमालिकामनशनं चादाय वीतस्पृहः ।
॥१६॥
Jain Education in
For Private Personal Use Only
linelibrary.org