SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ तदाऽत्र राक्षसीविद्याबलतस्तेन पापिना । बध्योऽहं मम भार्याश्चापहृत्य स ययौ रयात् ॥ ९॥ अधुना मम भाग्येनागतस्त्वं सत्त्ववान्नरः। अन्यथा मे कुतः स्वामिन् ! जीवितं दृढबन्धनात् ? ॥३१०॥ अत्रान्तरे स विद्याभृत्, तत्पत्नीसंयुतः पुनः । आगतस्तत्र तत्पार्श्वे, रोषारुण उवाच च ॥ ११ ॥ अरे नरो मया बध्धो, मुक्तोऽसौ केन मानिना? । अकार्यकारिणस्तस्य, जीवितं न जरत्यहो ॥१२॥ इत्युक्त्वा धावितः खड्गमाकृष्य नृपति प्रति । महाबाहुस्ततो राजा, सम्मुखः सङ्गरेऽभवत् ॥ १३ ॥ | खड्गाखङ्गि तयोर्युद्धं, कियढेलां तदाऽभवत् । लाघवाद्रत्नपालेन, हत्वाऽसौ भुवि पातितः ॥ १४ ॥ राक्षसीशक्तिविद्या सा,मुक्त्वा राटिं गता क्वचित् । हृष्टो हेमाङ्गदः कान्ताप्राप्त्या च रिपुघातनात् १५॥ राज्ञे प्रत्युपकारत्वान्मित्रत्वाच्चौषधीद्वयम् । दत्त्वा तयोर्जगादेति, महिमानं स खेचरः ॥ १६ ॥ सर्पस्यैषा विषहरा, परा च जनमोहिनी । इत्युक्त्वा च नृपं नत्वा, सप्रियः स्वपुरं ययौ ॥ १७ ॥ राजा लात्वौषधीयुग्मं, चचालेकदिशं प्रति । विलोकयन वनश्रेणी, वेणीवदल्लिगुम्फिताम् ॥१८॥ वृक्षच्छायाऽन्धकारेण, कष्टान्मार्गे वजन्नृपः । ददर्श पतितं वृक्षच्छायायां रोगिणं नरम् ॥ १९॥ Jain Education intola For Private Personel Use Only Alinelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy