SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ॥९ ॥ धर्म. अथ धीरत्वमाश्रित्य, पुनश्चित्ते व्यचिन्तयत् । किङ्करिष्यत्यसौ रोरः, कर्मणः सर्वकारणम् ॥ ९९ ॥ महा. यस्मिन्देशे यदा काले, यन्मुहूर्ने च यद्दिने । हानिर्वृद्धिः सुखं दुःखं, यद्भाव्यं तत्तदा भवेत् ॥ ३०० ॥ न मन्त्रा न तपो दानं, न मित्राणि न बान्धवाः । शक्नुवन्ति परित्रातुं, नरं कालेन पीडितम् ॥१॥ उक्तञ्च-अकारणं सत्त्वमकारणं गुणा, रूपं यशो वीर्यधनान्यकारणम् । अकारणं शीलमकारणं । कुलं, पुरा हि चीर्णं नृषु कर्म कारणम् ॥ २॥ इत्यादि बहुधा ध्यात्वा, समुत्तस्थौ स सत्त्ववान् । मन्दं मन्दं चचालाग्रे, पर्वतोऽग्रे च वीक्षितः॥३॥ आरुरोह गिरेः शृङ्ग, नरं बद्धं ददर्श च । मृतावस्थागतं दृष्ट्वा, कृपयाऽच्छोटयत्स तम् ॥ ४॥ वालिता चेतना वाते, राज्ञा पृष्टश्च मानवः । भद्र! त्वं केन बद्धोऽत्र ? स्ववृत्तं ब्रूहि मूलतः ॥ ५॥ कृत्वाऽञ्जलिं पुमान्प्रोचे, शृणु मे बन्धकारणम् । वैताढ्ये दक्षिणश्रेण्यां, पुरे गगनवल्लभे ॥६॥ सुगन्धवल्लभो राजा, प्रौढो विद्याधरेश्वरः । हेमाङ्गदोऽहन्तत्पुत्रो, विलसामि महासुखम् ॥ ७ ॥ नन्दीश्वरस्य यात्रार्थमन्यदा सह कान्तया । चलितोऽहं रिपुर्योम्न्यमिलद्विद्याधरः परः ॥ ८॥ Al॥९५॥ Jain Education a l For Private Personal Use Only jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy