SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Jain Educati " सोभाग्यदीपिकावृत्तं प्रोक्त्वाऽसौ तत्पदेऽपतत् । शापमोक्षस्तया चक्रे, भ्रातर्याहि निजं पुरम् ॥ ७६ ॥ तत्र राज्यञ्च लक्ष्मीञ्च, प्राप्स्यसि त्वं मदाशिषा । विनयात्तव तुष्टाऽहं विनयो हि महागुणः ॥ ७७ ॥ यतः - मूलं धर्म्मद्रुमस्य छुपतिनरपतिश्रीलतामूलकन्दः । सौन्दर्यावानविद्या निखिलगुणनिधिर्वश्यताचूर्णयोगः । सिद्धाज्ञामन्त्रयन्त्राधिगममणिमहारोहणादिः समस्तानर्थप्रत्यर्थितन्त्रं त्रिजगति विनयः किं न किं साधु धत्ते ? ॥७८॥ खेचरः स्वपुरे प्राप्तो, राज्यं लब्ध्वाऽभवत्सुखी । अस्तङ्गतो रविःसत्या, जातो जयजयारवः ॥ ७९ ॥ सा विख्याता जने जाता, सती शीलेन शीलिती । राजानः किङ्करायन्ते, देवा निर्देशकारिणः ॥ २८० ॥ इति श्री सौभाग्यदीपिकाकथा समाप्ता । अतस्ते कथ्यते मित्र ! यदि शृङ्गारसुन्दरी । धरिष्यति मनाक्कोपं, नो तदा तव शोभनम् ॥ ८१ ॥ | महासतीमिमां राज्ञीमावर्जयितुमर्हसि । परस्त्रीगमनेन त्वं, क्षितिं यास्यसि सप्तमीम् ॥ ८२ ॥ mational For Private & Personal Use Only www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy