SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ अहङ्कामभुजङ्गेन, दष्टो दुष्टेन मर्मणि । वचोऽमृतेन मां स्वस्थं, कुरु त्वं विषनाशनात् ॥ ५५ ॥ पञ्चबाणप्रहारस्य, व्यथा जाता घना मम । संश्लेषं तव देहस्य, करिष्येऽहं बलादपि ॥ ५६ ॥ यावदुक्त्वेति विद्याभृत्, शीलभङ्गकरोत्यसौ । तावत्तया बभाषेऽथ, रे पापिन् ! शृणु मद्वचः ॥ ५७॥ सत्याःशीलव्रतस्य त्वं, भङ्गकर्तुं समुद्यतः। तेन पापेन शापेन, क्षयं यास्यसि तत्क्षणात् ॥ ५८ ॥ तव राज्यञ्च राष्ट्रञ्च, पुत्रप्रियतमायुतम् । प्रयातु प्रलयं सर्व, मम शापेन वेगतः ॥२९॥ इति तस्या वचः श्रुत्वा, भूयो विद्याधरोऽब्रवीत् । दिवसोऽस्त्यधुना मुग्धे !, समेष्यामि पुनर्निशि॥२६॥ तदाऽहं त्वां हरिष्यामि, यास्यामि निजपत्तने । त्वया सह रमिष्ये च, तदा त्वं किङ्करिष्यसि ? ॥ ६१ ॥ ततः सोहगदेव्याह, मदीयवचनादविः । नास्तं यास्यति तत् श्रुत्वा, गतो विद्याधरःपुरे ॥ ६२ ॥ तावत्तत्र गृहे तस्याकस्मादासीत्प्रदीपनम् । जज्वाल क्षणमात्रेण, कुटुम्बसहितं गृहम् ॥६३ ॥ विनष्टास्तत्क्षणादेव, गजाश्वरथपत्तयः। संभूय वैरिसैन्येन, देशोऽस्य जगृहेऽखिलः ॥ ६ ॥ जाते तत्रैवमुत्पाते, स विलक्षो व्यचिन्तयत् । अहो किमिति सञ्जातं, अभाग्यं वर्तते मम ॥ ६५ ॥ . . Jain Education a l For Private Personal use only
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy