SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ महा. सिंहव्याघ्रपिशाचाश्च, यक्षव्यन्तरराक्षसाः। नश्यन्ते च सतीनाम्ना, तरेखां लङ्घयन्ति न ॥ ४४ ॥ सतीशीलप्रभावं तं, शृणु त्वं सावधानतः । सत्याः शापाद्विपन्नं हि, विद्याधरकुटुम्बकम् ॥ ४५ ॥ तथाच-पुरारत्नपुरे राजा, रामो राज्यमपालयत् । धनदत्तोऽभवत्तत्र, श्रेष्ठीशो राजमानितः ॥ ४६॥ धनश्रीरिति तद्भार्या, लावण्यजलकूपिका । सती शीलरता नित्यं, पतिभक्ता प्रियंवदा ॥४७॥ तया समं सदा श्रेष्ठी, बुभोज विविधं सुखम् । तयोर्देवीसमा जाता, सुता सौभाग्यदीपिका ॥ ४८॥ लालिता पालिताऽत्यन्तं, पाठिता भारतीव या। संप्राप्तयौवना साथ, साता जनमोहिनी ॥ ४९॥ पुरे कनकसंज्ञेऽभूत्तदा श्रेष्ठी धनावहः । नराणां गुणिनां मुख्यस्तत्पुत्रो नरकुञ्जरः ॥ २५० ॥ सोऽभूत्सर्वकलायुक्तो, विरक्तः परदारतः । तस्मै वराय सा दत्ता, धनदत्तेन नन्दिनी ॥ ५१ ॥ गता श्वशुरगेहे सा, गवाक्षे संस्थिताऽन्यदा । विद्याधरेण केनापि, दृष्टा व्योमनि गच्छता ॥ ५२॥ तत्राययौ स रागान्धश्चाटुवाक्यैर्जजल्प च । स्वरूपं बहुभङ्गीभिर्दिव्यशक्त्या च दर्शितम् ॥ ५३ ॥ मनसाऽपि वचस्तस्य, न मेने सा मनस्विनी । न ददौ चोत्तरं किञ्चित, पुनरूचे स पापधीः ॥ ५४ ॥ ॥९२॥ Rainelibrary.org Jain Education p nal For Private 3 Personal Use Only
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy