________________
महा.
Ma/पुण्यपापानुभावेन, सुखदुःखस्य संभवः । कर्मानुसारिणी बुद्धिः, सिद्धिर्भवति तादृशी ॥ २४ ॥
राज्ये लुब्धः पुरा मन्त्री, किं पुनस्तत्समर्पणे । सत्य आभाणको जातो, विडाले दुग्धरक्षणम् ॥२५॥ अन्यदा सचिवो लोलो, राज्ञीरूपविमोहितः । न विवेद क्षुधां तृष्णां, कातिः प्राप नो रतिम् ॥२६॥ एकदा तस्य भाग्येन, मिलितः सिद्धपूरुषः । तेन दत्ता वरा विद्या, अवस्वापनिकाभिधा ॥२७॥ ग्रामस्य वृद्धिकरणात्, स्वीकृताः राजसेवकाः । स्वामिद्रोहो धृतस्तेन, पापिना राज्यलोभतः ॥२८॥ निद्राञ्च स्वापिनी दत्त्वा, पलयङ्कस्थो नृपो निशि । आनीतो मन्त्रिणाऽरण्ये, यावन्मारयते च सः॥२९॥ तावत्तस्य नरेन्द्रस्य, दृढायुरनुभावतः । व्योन्नि वाणी समुत्पन्ना, मा मा भो भो इति स्फुटा ॥ २३०॥ नष्टो वाणीभयान्मन्त्री, सेवकाश्च दिशोदिशम् । मन्त्रिणाऽधिष्ठितं राज्यमन्तःपुरसमन्वितम् ॥ ३१ ॥ शृङ्गारसुन्दरीमेकां, विना राइयोऽपरा बलात् । सर्वा विडम्बितास्तेन, कामान्धेन कुकर्मणा ॥३२॥ शृङ्गारसुन्दरी बाढं, शीलव्रतपरायणा । बहुधाऽभ्यर्थ्यमानापि, न मेने तस्य तद्वचः ॥ ३३ ॥ कामक्रोधवशात्तस्या, अङ्गे पञ्चशतान्यथ । कशाघातान्स दुष्टात्मा, मोचयामास सर्वदा ॥ ३४ ॥
॥९१॥
Jain Education in
For Private Personel Use Only
Thjainelibrary.org