________________
१६
Jain Education
सुभोज्यं गीतं काव्यैञ्च कथकाञ्चनकामिनी । उत्तमानां विशेषेण, साधारणसुखानि षट् ॥ १६ ॥ विषयार्णवमग्नोऽसौ किञ्चित् जानाति नापरम् । निश्चिन्त एव नारीषु, गीतनृत्यादितत्परः ॥ १७ ॥ स्थापितो राज्यचिन्तायां, सचिवो जयसञ्ज्ञकः । तस्मिन्भारं समारोप्य, तस्थौ शक्र इव स्वयम् ॥ १८ ॥ सार्धं शृङ्गारसुन्दर्य्या, भुञ्जन् वैषयिकं सुखम् । वासरान् गमयामास, स दोगुन्द इवामरः ॥ १९ ॥ अपत्यमङ्गशुश्रूषा, भोगः खजनगौरवम् | गृहकर्म्मनियोगश्च, स्त्रीवल्लयाः फलपञ्चकम् ॥ २२० ॥ गुणरत्नाकरस्यापि भृशं विषयसेवनम् । रत्नपालस्य दोषोऽभूत्, निर्मलः को हि सर्व्वथा ? ॥ २१ ॥ यतः - चन्द्रे लाञ्छनता हिमं हिमगिरौ सिन्धौ जले क्षारता, अर्कस्तीक्ष्णकरः कटुर्मलयजं पङ्कं जले विद्यते ।
नो दुग्धा करिणी तथाऽहिलतिका पुष्पैः फलैर्वजिता,
दुर्देवेन विडम्बितं जगदिदं रत्नं सदोषीकृतम् ॥ २२ ॥
समता सर्वकार्येषु, संसारे हि शुभावहा । सभ्यैरिति निषिद्धोऽपि नात्यजद्यसनं नृपः ॥ २३ ॥
tional
For Private & Personal Use Only
www.jainelibrary.org