SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ॥९॥ Jain Education In वामस्वरा शिवा श्रेष्ठा, पिङ्गला दक्षिणखरा । प्रदक्षिणा च वामा च, कोकिला सिद्धिदायिनी ॥ ४९ ॥ यथादं वेद्मि शब्दार्थ, कोऽपि वेत्ति तथाऽपरः । स गृह्णाति तदा भव्यं ममाग्रेऽस्ति धनं बहु ॥ १५० ॥ पुनः शिवां रटन्तीं तां श्रुत्वा सत्पुरुषाग्रणीः । को न वेत्ति शिवाप्रोक्तमिति निर्णीतवान् हृदि ॥ ५१ ॥ समुत्थाय स पल्यङ्कात्, वीरकच्छा विधाय च । खड्गधारा (षट्रोडन) धरो भूत्वा धृत्वा धैर्य व मानसे ॥५२॥ शिवाशब्दानुसारेण, व्रजन्मार्गे पुराऽन्तरे । चतुष्पथमतिक्रम्य, दुर्गं चोल्लङ्घ्य वेगतः ॥ ५३ ॥ क्षणात्प्राप महोद्याने, स्मशानं सर्वभीभृतम् । रौरवं घोरतमसा, बीभत्सं बहिरन्तरा ॥ ५४ ॥ कचित् करालकङ्काल- वेतालव्यालसंकुलम् । क्वचिद्रौद्रतराराव - वराहव्याघ्रभीषणम् ॥ ५५ ॥ धूकघूत्कारसंव्याप्तं, संकीर्ण सिंहसंबरैः । तत्र शब्दानुसारेणाग्रेऽग्रे धीरो जगाम च ॥ ५६ ॥ ॥ पञ्चभिः कुलकम् ॥ ददर्शाग्रे स उद्योतं, ज्वलन्तं चाग्निकुण्डकम् । झात्कारकान्तिमान्स्वर्ण - पुरुषस्तत्र वीक्षितः ॥ ५७ ॥ देदीप्यमानमत्यन्तं दृष्ट्वा तं स्वर्णपौरुषम् । आ सिक्त्वा शीतलीचक्रे, समीपस्थितवारिणा ॥ ५८ ॥ For Private & Personal Use Only महा. ॥९॥ ninelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy