SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ तीर्थेऽस्थिन्यासकृत्पुत्रः, पुनर्जन्मप्रदः पिता | सहोत्पन्नः पुनाता, स भर्ता यस्तु भक्तदः ॥ ९८ ॥ तदस्यैव प्रियाऽस्त्वैषा, यः सदा भोजनं ददौ । (याचित्वा ग्रामतो मिक्षां) भार्याभरणपोषकृत् ॥१९॥ इत्युक्ते मुक्तवैरास्ते, सर्वे स्वस्वास्पदं ययुः । परिणीता तु सा तुर्यवरेण जनसंमतम् ॥ २० ॥ यथाऽसौ नाभवद्विद्यातीर्थकष्टकृतामपि । भक्तदानं विना तद्वद्विना साम्यं न निर्वृतिः ॥ १॥ तत्त्वज्ञानं विना विद्या, तपस्या शमवर्जिता । तीर्थयात्रा मनस्थैर्य, वन्ध्या वन्ध्येव कामिनी ॥२॥ प्रणिहन्ति क्षणार्द्धन, साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीवतपसा जन्मकोटिभिः ॥३॥ वीतरागं हृदि ध्यायन, वीतरागो यथा भवेत् । मुक्त्वाऽखिलमयध्यानं, भ्रमरं ध्यानमाश्रयेत् ॥ ४॥ स्थाने स्थाने जनेऽरण्ये, सुखे दुःखे तथा मनः । अभ्यासं वीतरागत्वे, लयलीनं यथा भवेत् ॥५॥ गन्धः पुष्पे घृतं दुग्धे, तेजः काष्ठे यथा स्थितम् । ज्ञानं जीवे तथा किन्तु, व्यक्तीस्यात्परिकर्मणा ॥६॥ अघदवौघघनाघनमण्डली, सुकृतसन्ततिकल्पलतावनी । विशदधर्मजनस्य मितस्फुरत्गुणगणा - करुणा जयताच्चिरम् ॥७॥ JainEducatarai For Private Personal Use Only www.anelorary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy