________________
चन्द्रयुक्ता निशा भाति, प्रिया पत्यनुगामिनी। पतिचित्तानुवृत्त्यैव, स्थातव्यं हि त्वया सुते !॥१९॥ मितं ददाति हि पिता, मितं भ्राता मितं सुतः । अमितस्य हि दातारं, भर्तारं को न पूजयेत् ? ॥१६०॥ इत्यादिविविधां शिक्षा प्रदत्त्वा वलितो नपः। कुमारः कान्तया युक्तः संप्राप्तो निजपत्तनम् ॥ ६१॥ पुरप्रवेशोऽथ वरस्य तस्य, पृथ्वीभुजा कारित उत्सवेन । वध्वा समं मङ्गलभाग्वरोऽसौ, ननाम:
भक्त्या पितृमातृपादान ॥ ६ ॥ श्वश्रूपादयुगं प्रणम्य विधिना तस्थौ वधूः प्राङ्गणे, तस्या रूपविलोकनाय वनितास्तत्रागतास्तावता। दृष्ट्वा तां जगदुर्मिथः सुरवधूः किंवाप्यसौ खेचरी, किंवा नागकुमारिकाऽथ कमला किं किंनरी पार्वती६३/ नैषा सुरी न नागश्रीः, किंनरी खेचरी शिवा । रत्नपालस्य योग्या च, भोग्यैषा वरकन्यका ॥६४ ॥ वर्षन्तीव सुधारसं मधुरया वाचा प्रसन्नानना । नम्रा सद्विनयेन शीलसरला सौभाग्यलावण्यभूः । पत्युर्जीवितसंनिभा सुतवती चान्तर्धना संपदा, पुण्याढ्या सुवधूः पुनाति चरणाम्भोजैहं श्रीरिव ६५ कुमारः प्रियया साधू, भुजानः सुरवत्सुखम् । मातापित्रोः पदाम्भोज, सेवते भृङ्गवत् सदा ॥ ६६ ॥
JainEducational
For Private
Personal Use Only