________________
॥८७॥
चेटीभिर्खालितो वह्निर्द्वितीयेऽह्नि सकन्यकः । कुमारः प्रकटीजातः, महत्सत्त्वं जना विदुः ॥ ५१ ॥ आगता ये नृपाः सर्वे, स्फालभ्रष्टप्लवङ्गवत् । हताशाः श्यामवक्रास्ते, गता निजपुरं पुरम् ॥ ५२ ॥ ततः शुभे दिने भूपो, विवाहं महदुत्सवात् । तयोश्चक्रे च राज्याध, दत्तवान्करमोचने ॥ ५३॥ दशाहस्थितिस्तत्रैव, स्थित्वा दशदिनान वरः। भूपं विज्ञपयामासानुज्ञां देहि चलाम्यहम् ॥ ५४ ॥ राज्ञाऽथ तस्य सार्थाय, दत्वा दानं यथोचितम् । सर्च सन्तोष्य जामाता, पुरे संप्रेषितो निजे ॥ ५५॥ राजा कतिप्रयाणानि, जामात्रा सार्धमागतः । वलमानेन तातेन, शिक्षेति दुहितुर्ददे ॥ ५६ ॥
यतः-निर्व्याजा दयिते ननान्दृषुनता श्वश्रूषु भक्ता भवेः,
स्निग्धा बन्धुषु वत्सला परिजने स्मेरा सपत्नीष्वपि । पत्युम्मित्रजने विनर्मवचना रुष्टा च तद्वेषिषु,
स्त्रीणां संवननं तदद्भुतमिदं वीतौषधं भर्तृषु ॥ ५७ ॥ हे वत्से ! निजनाथस्य, न मोक्तव्यं पदाम्बुजम् । इष्टं दैवतवध्येयं, न ध्येयं दुर्मनः कदा ॥ ५८ ॥
॥८७॥
Jain Education
a
l
For Private & Personel Use Only
jainelibrary.org