SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ सचिवेन तदाऽचिन्ति, विधिचेष्टा विलोक्यते । किङ्करोति लिखेत्किं वा, ध्यात्वैवं गुप्तवृत्तितः ॥ १८ ॥ मध्यरात्रे स्थितो दीपच्छायायां स सुधीर्यदा। तावदागत्य दैवेन, लिखित्वा प्रोक्तमीदृशम् ॥ १९ ॥ युग्मम् ॥ आखेटक्रिययैवासौ, प्राणवृत्तिर्विधास्यति । चटिष्यत्येकजीवोऽस्य, सदाऽन्यो न चरिष्यति ॥ १२० ॥ श्रुत्वैवं शङ्कितोऽमात्यश्चेतसीति व्यचिन्तयत् । अहो भूपसुतस्यापि किमिदं कर्म्मचेष्टितम् ? ॥ २१ ॥ द्वितीयोऽथ सुतो राज्ञो, जज्ञे तस्यापि पूर्ववत् । षष्ठीरात्रौ प्रधानेन विधिनोक्तमिति श्रुतम् ॥ २२ ॥ पृष्ठवाह्यगवैकेन, पुत्रोऽसौ घासविक्रयी । भविष्यति सदा नान्यं, बलीवईमवाप्स्यति ॥ २३ ॥ तृतीया तु सुता जाता, तद्भाले चैत्रमक्षराः । विधिना लिखिता एषा, नूनं वेश्या भविष्यति ॥ २४ ॥ एकमेव नरं दैवादवाप्स्यति दिनं प्रति । त्रयाणामिति दुष्कर्म्म, मन्त्री विज्ञाय दुःख्यभूत् ॥ २५ ॥ कियत्यपि गते काले, हत्वा तं गोत्रिभिः नृपम् । तद्राज्यं जगृहे नष्टाः पुत्रीपुत्रादयः पुरात् ॥ २६ ॥ ते त्रयोऽपि पृथक् कर्म्म, कुर्वन्ति विधिनोदितम् । सचिवो ज्ञातसंबन्धो, वीक्षणार्थं विनिर्गतः ॥ भ्रमन्नेक पुरेऽपश्यत्तमाखेटकरं नरम् । उपलक्ष्याब्रवीन्मन्त्री, किमिदं त्वङ्करोषि भोः ! ॥ २८ ॥ २७ ॥ Jain Educatmational For Private & Personal Use Only 0000000 www.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy