SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ महा. ॥८५॥ रौद्रे प्रवर्तिते युद्धे, भूभुजा सन्धिपालकान् । संप्रेष्य वारिता युद्धान, न्यवर्तन्त परं न ते ॥ ७॥ तदा शृङ्गारसुन्दा , चिन्तितं चेति चेतसि । मदर्थे जायते युद्धमभूवं कालरात्र्यहम् ॥ ८॥ विषवल्लीसमा जाता, कुलेऽहं कुलनाशनी। पितृमातृमतिर्मना, भुग्ना भाग्यलता मम ॥ ९॥ हिंसादिकं महापापं, सङ्ग्रामाज्जायते मम । चन्द्रवल्लाञ्छनं मेऽद्य, सञ्जातं कर्मदोषतः ॥ ११ ॥ अहो मे निर्मला जातिः, सञ्जाता समलाऽधुना | निष्कलङ्क कुलश्चाभूत्कलङ्ककलितं किल ॥ ११ ॥ इति चिन्तापरा सा च, यतिवन्मौनमाश्रिता । उपायं चिन्तयामास, सर्वेषां क्षेमहेतवे ॥ १२॥ तदा तत्रागतो मन्त्री, सुबुद्धिस्तस्य कन्यया। कथितं कोऽप्युपायोऽस्ति ?, कञ्च्यन्ते यबृपा अमी ॥१३॥ उपायेन प्रकर्तव्यं, न शक्यं यत्पराक्रमैः। अभीहितानि सिध्यन्ति, जने हास्यं न जायते ॥१४॥ यथा पुराऽपि केनापि, मन्त्रिणा बुद्धियोगतः । निजभर्तुर्गतं राज्यं, वालितं तत्क्षणादपि ॥ १५॥ नरवाहनराजाऽभूत्पुरे क्षितिप्रतिष्ठिते । मन्त्री च ज्ञानगर्भोऽस्य, बुध्ध्या देवगुरूपमः ॥ १६ ॥ तस्य राज्ञोऽन्यदा गेहे, नन्दनप्रसवोऽभवत् । प्रारब्धोऽस्य यदा षष्ठीरात्रिजागरणोत्सवः॥१७॥ For Private Jan Education inte Hrinelibrary.org Personal Use Only
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy