SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १५ Jain Education Int 69999 एवंविधगुणैर्युक्ता, साक्षान्मोहनवलिका । वरमालां करे कृत्वा, स्थिता साऽत्र स्वयंवरे ॥ ९८ ॥ आगता ये नृपास्तत्र, प्रतिहार्या निवेदिताः । पूर्वप्रेमानुभावेन, रत्नपालो वरो वृतः ॥ ९९ ॥ ततोऽन्ये क्षत्रियाः क्रुद्धाः, सङ्ग्रामाय समुत्थिताः । त्रिंशदक्षोहिणीसंख्या, वाहिन्यो मिलिता स्तदा ।। १०० ॥ यतः - दश नागसहस्राणि, नागे नागे शतं रथम् । रथे रथे शतं अश्वं, अश्वे अश्वे शतं नरम् ॥ १ ॥ काव्यम् - अयुतं गजानां प्रयुतं रथानां, नवलक्ष योद्धा दशलक्ष वाजिनाम् । उदारभृत्याः षट्त्रिंशलक्षाः, अक्षौहिणीसैन्यं मुनयो वदन्ति ॥ २ ॥ संभूय रिपवः सर्वे, समुदायेन लक्षशः । एकेन रत्नपालेन सार्धं युद्धाय चागताः ॥ ३ ॥ सज्जीबभूव युद्धाय, रत्नपालोऽपि विक्रमी । तदैवं वीरसेनोऽपि चिन्तयामास चेतसि ॥ ४ ॥ अहो कथमनर्थोऽयं, संजातः शुभवासरे ? । भोजनावसरे युद्धं, है अकाण्डेऽय जायते ॥ ५ ॥ यतः - पुष्पैरपि न योद्धव्यं, किं पुनर्निशितायुधैः । युद्धे विजयसन्देहः, प्रधानपुरुषक्षयः ॥ ६ ॥ For Private & Personal Use Only lainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy