________________
॥८४॥
खजान्धजडचित्तानां, सदैवोत्पन्नभक्षिणाम् । बहुवैरापवादानां, तेषा देया न कन्यका ॥ ८९ ॥
काव्यम्-कुलं च शीलं च सनाथता च, वित्तं च विद्या च वपुर्वयश्च ।
एतान्गुणान्सप्त निरीक्ष्य देया, ततः परं भाग्यवशा च कन्या ॥९॥ अनुरूपो वरः पुत्र्याः, को भविष्यति सद्गुणैः? । स्वयंवराऽथवा कन्या, वृणुतां स्वरुचेर्वरम् ॥ ९१ ॥ || ध्यात्वेति कारितो राज्ञा, स्वयंवरणमण्डपः । दूतैराकारिताः सर्वे, समाजग्मुर्महीभुजाः ॥ ९२ ॥ समित्रो रत्नपालोऽपि, पित्रादेशात्समागतः। महान्तो मिलितास्तत्र, मण्डलीकाः सहस्रशः ॥ ९३ ॥ आरम्येषु हर्येषु निवेशनेषु, प्रियोक्तिदानादरनम्रताद्यैः । शय्यासनैस्तत्र नरेन्द्रचक्रमुपाचरञ्चारु स:
भूमिनाथः ॥ ९४ ॥ हिमालयकृतस्पर्धास्तत्र पक्वान्नराशयः । वैताढ्यशृङ्गवत्तुङ्गाः, सन्ति शाल्यादिसञ्चयाः॥ ९५ ॥
ટિકા अथ लग्नदिने प्राप्ते, सर्वाभरणभूषिता । आगता मण्डपे तत्र, कन्या शृङ्गारसुन्दरी ॥ ९६ ॥ रूपेण विजिता रम्भा, शास्त्रेण च सरस्वती । गुणेन जितगौरी च, लक्ष्मीलक्षणलक्षिता ॥ ९७ ॥
Jain Education
a
l
For Private Personel Use Only
A
w.jainelibrary.org