________________
बिम्बोष्ठी तुङ्गमाशा गजगतिगमना दक्षिणावर्चनाभिः । स्निग्धाङ्गी वृत्तवक्त्रा पृथुमृदुजघना सुस्वरा चारुकेशा,
भर्त्ता तस्याः क्षितीशो भवति च सुभगा पुत्रमाता च नारी ॥ ८२॥ तां प्राप्तयौवनां दृष्टा, चिन्तां भूपोऽकरोदिति। कस्मिन् स्थाने कुले कस्मिन्, कस्मै देया सुता मम ?॥८॥
यतः-जातेति शोकं महतीति चिन्तां, करोति या कस्य वरस्य देया ।
दत्ता सुखं प्राप्स्यति वा नवेति, कन्यापितृत्वं खलु नाम कष्टम् ॥ ८४ ॥ मूर्खनिर्धनदूरस्थसूरमोक्षाभिलाषिणाम् । त्रिगुणाधिकवर्षाणां, तेषां या न कन्यका ॥ ८५ ॥
यतः-अत्यद्भुतधनाढ्यानामतिशान्तातिरोषिणाम्।
__ सरोगविकलानाञ्च, तेषां देया न कन्यका ॥ ८६ ॥ यतः-कुलजातिविहीनानां, पितृमातृवियोगिनाम् । गेहिनां पुत्रयुक्तानां, तेषां देया न कन्यका ॥ ८७ ॥ कुशीलचौर्ययुक्तानां, मद्यपद्यूतकारिणाम्। वैदेशिकस्वगोत्राणा, तेषां देया न कन्यका ॥ ८८ ॥
Jan Education
For Private
Personal use only
lainelibrary.org