SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ विद्यावतां नो भवतीह गर्बो, विद्याविहीना बहुभावुकाः स्युः॥ ६८॥ शास्त्रं प्रज्ञावशात्तेनाधीतं स्तोकदिनैर्घनम् । षट्त्रिंशदायुधाभ्यासः, कृतश्चानेन लीलया॥ ६९ ॥ रूपसौभाग्यसंपन्नो, द्विसप्ततिकलानिधिः । युवराजपदे पित्रा, स्थापितो रत्नपालकः ॥ ७० ॥ मित्रैः परिवृतो नित्यं, विविधक्रीडया स च । शस्त्रशास्त्रविनोदेन, गमयामास वासरान् ॥ ७१ ॥ इतश्च कम्बाख्ये देशे, देशे हंसपुरे पुरे। वीरसेनो नृपो वीरो, महासेन इवाभवत् ॥ ७२॥ प्रिया वीरमती तस्य, शीलसौभाग्यशालिनी । शृङ्गारसुन्दरी पुत्री, तयोः सुगुणमण्डिता ॥ ७३ ॥ यतः-वक्त्रं चन्द्रविडम्बि पङ्कजपरीहासक्षमे लोचने, वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः। वक्षोजा इभकुम्भविभ्रमहरा गुर्वी नितम्बस्थली, वाचां हारि च माईवं युवतिषु स्वाभाविकं मण्डनम् ॥ ७४ ॥ चतुष्षष्टिकलापात्रं, रूपयौवनमिश्रिता । तातेन याचिता साऽद्वितीया भारती भुवि ॥ ७५॥ Jain Education inlaina For Private Personal Use Only A jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy