SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ॥४२॥ यस्य स्वरोऽथ नाभी, सत्त्वमितीदं त्रयं गभीरं स्यात् । सप्ताम्बुधिकाञ्चेरपि, भूमेः स कचग्रहं कुरुते॥६०॥ महा. . इति द्वात्रिंशल्लक्षणानि । छत्राकारं शिरो यस्य, विस्तीर्ण हृदयं तथा । कटी यस्य विशाला च, स सौख्यधनपुत्रवान् ॥ ६१ ॥al मयूरगजहंसाश्वच्छत्रतोरणचामरैः । सदृशा यत्करे रेखाः, स भोगान् लभते घनान् ॥६२ ॥ प्रासादपर्वतस्तूपपद्माङ्कशरथोपमाः । ध्वजकुम्भसमा रेखा, हस्तपादे शुभावहाः ॥ ६३ ॥ नरस्य दक्षिणे पार्श्वे, तिलकं मण्डलं शुभम् । वामे शुभं च नारीणां, ज्ञातव्यं हि नराधिप!॥ ६४॥ शास्त्रोक्तलक्षणान्येवं, पुत्राङ्गे वीक्ष्य भूभुजा । जातहर्षेण विप्रोऽसौ, विसृष्टो दानपूर्वकम् ॥६५॥ राज्ञाऽसौ लेखशालायां, मुक्तो वर्षे ऽथ सप्तमे । नरो हि शोभते नित्यं, कलाविद्यादिकैर्गुणैः ॥ ६६ ॥ यतः यद्यपि भवति विरूपो, वस्त्रालङ्कारवेषपरिहीणः । सजनसभाप्रविष्टः, शोभामनुभवति सद्विद्यः ।। ६७ ॥ काव्यम्-संपूर्णकुम्भो न करोति शब्दम! घटो घोषमुपैति यस्मात् । ॥८२॥ JainEducation For Private Personal Use Only Hijainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy