________________
कर्मस्थाने यदा सौम्या, नीचस्थाने क्रूरग्रहाः । स्वगृहस्थाः शुभैर्दृष्टाः, स नरः सर्वकार्यकृत् ॥ ४९ ॥ पुत्रस्यैवं ग्रहबलं, श्रुत्वा ज्योतिर्विदां मुखात् । राजा रङ्गभराट्र्यो, विप्रं विदुरमाह्वयत् ॥ ५० ॥ विप्रोऽष्टाङ्गनिमित्तज्ञ, आगतो हस्तपुस्तकः । दत्ताऽऽशीस्तेन भूपस्य, महाराज! चिरञ्जय ॥ ५१ ॥ आसनादिकसन्मानं दत्त्वा मुक्त्वाऽग्रतः फलम् । प्रणामपूर्व्वकं राजा, पप्रच्छ सुतलक्षणम् ॥ २२ ॥ | विप्रोऽवादीन्महाराज ! शृणु सामुद्रिके यथा । उक्तानि लक्षणान्यङ्गे, तदहं कथयामि ते ॥ ५३ ॥ इह भवति सप्तरक्तः, षडुन्नतः पञ्चसूक्ष्मदीर्घश्च । त्रिविपुललघुगम्भीरो, द्वात्रिंशल्लक्षणः स पुमान् ॥५४॥ नखचरणपाणिरसनादशनच्छदतालुलोचनान्तेषु । सद्यो रक्तः सप्तसु, सप्ताङ्गा भुज्यते लक्ष्मीः ॥ ५५ ॥ पङ्कं कक्षा वक्षः, कृकाटिका नासिका नखास्यमिति । यस्येदमुन्नतं स्यादुन्नतयस्तस्य जायन्ते ॥ ५६ ॥ | दन्तत्वक्केशाङ्गुलिपर्व्व नखश्चेति पञ्च सूक्ष्माणि । धनलक्ष्माण्येतानि प्रभवन्ति प्रायाः पुंसाम् ॥५७॥ नयनकुचान्तरनाशाहनु भुजमिति यस्य पञ्चकं दीर्घम् । दीर्घायुर्वित्तपरः, पराक्रमी जायते स नरः॥ ५८ ॥ | भालमुरो वदनमिति, त्रितयं भूमीश्वरस्य विपुलं स्यात् । ग्रीवा जङ्घा मेहनमितित्रयं लघु महीशस्य ॥ ५९ ॥
Jain Educationtional
For Private & Personal Use Only
ww.jainelibrary.org