________________
धर्म तैस्तु विंशतियोजन्या, कृत्वा देशान् पृथक् पृथक् । भ्रामिता तत्र राज्ञी दिग्जयदोहदपुरणे ॥ ३९ ॥ महा ॥१पूर्णेषु गर्भमासेषु, स्फुरत्कान्तिसुलक्षणम् । सा राज्ञी सुषुवे सूनुं, यथा प्राची दिवाकरम् ॥ ४० ॥1
पुत्रे जातेऽभवद्राजा, हर्षादुत्फुल्लमानसः। पुत्रो हि जननीपित्रोः, परमानन्दकारणम् ॥ ११ ॥ यतः नेपथ्यैर्विविधै रसैबहुविधैरुल्लापनैः क्रीडनैर्नामस्थापनचूलिकादिकरणैरालिङ्गनैर्वाहनैः। विद्याध्यापनकर्मकौशलगुणारोपैश्च यो नन्दनं,स्वस्मादप्यधिकं करोति स पिता कै मन श्लाघ्यते?४२ राजा विनयपालोऽसौ, दानगानादिभिर्भृशम् । सुतजन्मोत्सवञ्चके, करान् देशे मुमोच च ॥४३॥ भोज्यालङ्कारवस्त्रायैर्गोत्रिजा(त्रजान् गोत्रिणो गुरून् । सन्तोष्य तत्पुरो राजा, बभाषे रचिताञ्जलिः४॥ अस्मिन्गर्भस्थिते मात्रा, दृष्टः स्वप्ने मणिव्रजः । रत्नपालोऽस्तु नाम्नाऽयं, ततः स्वप्नानुसारतः ॥४५ लाल्यमानोऽथ धात्रीभिर्ववृधेऽसौ दिने दिने । पित्रोर्मनोरथैः सार्धं, शुक्लपक्षे शशाङ्कवत् ॥ १६ ॥ जन्मपत्र्यां बुधैर्दृष्टो, राजयोग इति स्फुटः । केन्द्रस्था गुरुशुक्रज्ञा, दशमो भूमिनन्दनः ॥४७॥ बुधभार्गवजीवानामेकोऽपि केन्द्रसंस्थितः । स्थानानि लभते नित्यं, महीभोक्ता भवेत् ध्रुवम् ॥ ४८॥:
A
॥८१॥
For Private Personal use only
Jain Education inmol
lainelibrary.org