________________
प्रायेणोत्तमधर्मकर्म तदिदं स्त्रीणां सतीनां भवेत् ॥ २८ ॥ बुभोज विपुलान् भोगान्, तया सार्धं महीपतिः । दिनानि गमयामास, लीलया सुकृतेन च ॥ २९ ॥ अथान्यदा सुखं सुप्ता, देहबाधाविवर्जिता । निशीथसमये स्वप्नमेवं देवी ददर्श सा ॥३०॥ उत्तुङ्गशृङ्गसदृशो, दृष्टो रत्नोच्चयो महान् । मुखे प्रविश्यमानोऽथ, जजागार च तत्क्षणात् ॥३१॥ प्रभातसमये राज्ञी, पत्युरग्रे न्यवेदयत् । एवं स्वप्नो मया दृष्टस्तत्फलं कथय प्रभो! ॥ ३२॥ उवाच मतिकौशल्यान्निजचित्ते विचिन्त्य सः । स्वप्नस्यास्य प्रभावात्ते, देवि! पुत्रो भविष्यति ॥३३॥ स सर्वगुणसंपूर्णो, रत्नराशिसमद्युतिः। प्रतापप्रबलो भावी, दृष्टः खप्नो यदीदृशः ॥ ३४ ॥ एवं स्वप्नफलं श्रुत्वा, गता प्रमुदिता गृहे । गर्भ बभ्रे च सा देवी, निधानमिव मेदिनी ॥ ३५॥ । क्रमेण ववृधे गर्भ, उत्पन्नाः शुभदोहदाः। पूर्यन्ते पुण्ययोगेन, यथा राज्याः सुखं भवेत् ॥ ३६ ॥ गर्भानुभावतो राज्ञी, चित्ते जानाति चैकदा । गजारूढा जगत्सव, साम्प्रतं साधयाम्यहम् ॥ ३७॥ दुष्पूर्य दोहदं ज्ञात्वा, तं नृपेणाथ मन्त्रिणः । आकार्योचे कथं राज्ञा, दोहदो ह्येष पूर्यते ? ॥ ३८॥
Jain Education
a IAT
l
For Private Personal Use Only
w.jainelibrary.org