________________
सुराः शीलेन सानिध्यं, सदा कुर्वन्ति मानवे । रत्नपालस्य कान्तावद, यान्ति विघ्नानि शीलतः॥१२॥ अपृच्छद्भपतिः केयं, रत्नपालप्रिया प्रभो! । समग्रं श्रोतुमिच्छामि, तस्या अपि कथानकम् ॥ १३॥ स्वामी योजनगामिन्या, वाण्योचे शृणु भूपते! । सर्वभूतहितं वच्मि, तच्चरित्रं यथातथम् ॥ १४ ॥ अस्त्यत्र मध्यगो द्वीपो, जम्बूद्वीपाभिधानतः। वर्तुलः स्थालसङ्काशो, लवणोदधिनाऽऽवृतः॥ १५ ॥ तन्मध्येऽस्ति गिरिर्मेरुर्यत्रासन्नवनान्तरे । जम्बूवृक्षोऽस्ति यन्नाम्ना, जम्बूद्वीपोऽयमुच्यते ॥ १६ ॥ मेरोदक्षिणदिग्भागे, लवणोदधिपार्श्वगम् । क्षेत्रं भरतनामैतत्पवित्रं पुण्यकर्मणा ॥ १७ ॥ तत्रास्ति भूमिभामिन्या, ललाटे तिलकोपमम् । विख्यातं पूर्वदेशे च, नगरं पाटलीपुरम् ॥ १८ ॥ परितो वरवापीभिः, कूपारामसरोवरैः । यत्पुरं शोभते नित्यं, नररलैरलतम् ॥ १९॥ गवाक्षमण्डपस्थ(स्त)म्भद्धारतोरणशोभिताः । आवासा यत्र शोभन्ते, तुङ्गाः शिखरिशृङ्गवत् यदायामपृथुत्वेन, नवद्वादशयोजनम् । राजितं तुङ्गवप्रेण, गङ्गातटसमाश्रितम् ॥ २१ ॥
यतः-स्थाने च यत्रास्ति जिनेन्द्रपूजा, साधम्मिकाः साघुसमागमश्च ।
॥२०॥
Jain Educatio
naliona
For Private Personel Use Only
Nuww.jainelibrary.org