________________
विज्ञानं जातिरुच्चा कुलमाप विपुलं धर्मसंसिद्धिरित्यम् ॥ ४१ ॥ ॥७८॥ पात्रे पुण्यनिबन्धनं तदितरे प्रोद्ययाख्यापकं , भृत्ये भक्तिभरावहं नरपतौ सन्मानसंपादकम् । मित्रे प्रीतिकरं सदा रिपुजने वैरापहारक्षम, भट्टादौ च यशस्करं वितरणं न काप्यहो निष्फलम् ॥ ४२ ॥
नो शीलं प्रतिपालयन्ति गृहिणस्तप्तुं तपो न क्षमाः, आर्तध्याननिराकृता जडधियस्तेषां कुतो भावना ? । इत्येवं निपुणेन हन्त मनसा सम्यग् मया निश्चितं,
नोत्तारो भवकूपतोऽपि सुदृढं दानावलम्बात्परः ॥४३॥ महानन्दपदं दत्ते. विधत्ते या सुखश्रियः। भव्यजीवौघसंसेव्या, दानशाखा श्रियेऽस्तु वः॥४४॥ इति श्रीवीरदेशनायां श्रीधर्मकल्पद्रुमे चतुःशाखिके दानशाखायां धर्मदत्तकथान्विते
श्रीचन्द्रधवलनृपाख्याने तृतीयः पल्लवः समाप्तः ॥३॥
॥ समाप्ता चेयं प्रथमदानशाखा॥
॥७८॥
Jain Education inallal
HAI
For Private Personal Use Only