SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Jain Education In अद्भुतं भाग्यरूपादि, संप्रेक्ष्यगुणसञ्चयम् । तयोर्वीक्ष्य मुदा भूपः, प्रकरोति स्वयंवरम् ॥ १४ ॥ अत्रानेकनरेन्द्राणां मण्डले मिलिते सति । ताभ्यां वत्रे पद्मपुराधीशः सिंहनरेश्वरः ॥ १५ ॥ प्राप्ते स्वस्वपुरं राजमण्डले निखिले नृपः । सिंहोऽपि सहितस्ताभ्यां ययौ पद्मपुरं महान् ॥ १६ ॥ अन्यदा ते गवाक्षस्थे, मुनिमुत्पन्नकेवलम् । वीक्ष्य जातिस्मृतिं प्राप्ते, अद्राष्टां च निजं भवम् ॥ १७ ॥ फलदानं ददे यस्मै स एवायं मुनीश्वरः । दृक्पथे भाग्ययोगेन, संप्राप्तो विद्यतेऽधुना ॥ १८ ॥ ततस्ते चेलतुस्तस्य, वन्दनाय वनं प्रति । रथारूढे परिवारयुक्ते ताभ्यां नतो मुनिः ॥ १९ ॥ घृतेक्षुरसदुग्धादि, मोदकाः फलकान्यपि । सा दानं वर्णयामास, तीर्थकगोत्रदायकम् ॥ ६२० ॥ पूर्वे जन्मनि किं विप्रकुले जाते अपि ध्रुवम् । अभूव पत्न्यौ भिल्लस्य, दुष्कृतं किं कृतं पुरा ? ॥ २१ ॥ इति पृष्टो मुनिः प्रोचे, विशालाख्या पुरी वरा । दत्ताभिघोऽभवत्तत्र श्रेष्ठी श्रीद इवापरः ॥ २२ ॥ लक्ष्मीवती प्रिया तस्य, प्रशस्यगुणशालिनी । तत्कुक्षिजे हेममालारत्नमालाभिधे सुते ॥ २३ ॥ | विवाहावसरे ते द्वे, सखिभिः परिवारिते । कामदेवाभिधं यक्षमर्चितुं जग्मतुर्द्दने ॥ २४ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy