SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ 品 ॥ ७६ ॥ Jain Education ४ ॥ गृहीत्वा ते स्त्रियौ भिल्लैः, पल्लीशाय समर्पिते । तस्य प्रिये उभे जाते, विप्रधर्मे न मुञ्चतः ॥ अन्यदाऽऽगात्फलाहारः, कश्चिद्रतदिनो जनैः । वनान्तरे स्थिते ते द्वे, स्नानं कृत्वा सरोवरे ॥ सहकारफलान्येका, निर्बीजीकृत्य तस्थुषी । अन्या रम्भाफलान्याशु, भोक्तुं सज्जीचकार च ॥ ५ ॥ ततस्ते दध्यतुश्चित्ते, जन्म जातं निरर्थकम् । ब्राह्मणानां कुले भूत्वा, भिल्लपत्न्यौ बभूविव ॥ ६ ॥ यदि कोऽपि समायाति भिक्षुः चक्षुः पथेऽधुना । पुनाति तत्फलाहारमस्मदीयमनुग्रहात् ॥ ७ ॥ मुनिर्मासोपवासस्य, पारणे पुण्यकारणे । धर्म्मदत्ताभिधस्तत्र, भाग्ययोगात्तदाऽऽगमत् ॥ ८ ॥ फलानि तानि तस्मै ते, ददते स्म मुदा तदा । तयोः कुलादिकं सर्वे, जानानो मुनिरग्रहीत् ॥ ९ ॥ गते मुनौ फलाहारं, चक्रतुस्ते अपि स्वयम् । कुर्वाणे च गृहं प्राप्ते, चिरं चित्तेऽनुमोदनाम् ॥ ६१० ॥ मृत्वा चान्ते समाधाय प्रतिष्ठानाभिधे पुरे । पद्मभूपप्रियापद्मावतीकुक्षौ समागते ॥ ११ ॥ तयोर्जन्मनि भूपालः, कृत्वा प्रौढमहोत्सवम् । कमलावतीश्च लीलावतीत्याख्यां पिता व्यधात् ॥ १२ ॥ वर्धमाने कलाः सर्व्वास्ते अधीते मनोहरम् | यौवनं प्राप्य नो कस्य, लोकस्याहरतां मनः ॥ १३ ॥ For Private & Personal Use Only #1 महा. ॥ ७६ ॥ ow.jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy