________________
Jain Education Inter
तस्मिन्पुरे वरो विप्रो, विप्रकर्म्मरतः सदा । देवशर्म्माभिधस्तस्य, देवदत्ता च वल्लभा ॥ ९३ ॥ जातास्तयोः सदाचाराश्चत्वारो नन्दनोत्तमाः । ततः परं सुते जाते, उभे सर्वगुणैः शुभे ॥ ९४ ॥ गोरीति किल गान्धारी, चेतिनामयुगं तयोः । मुदा पित्रादिभिश्वके, क्रमादृद्धिञ्च ते गते ॥ ९५ ॥ पाणिग्रहणयोग्ये ते, दृष्ट्वा तातो व्यचिन्तयत् । केनाप्युत्तमविप्रेण, सनाथे प्रकरोम्यम् ॥ ९६ ॥ कोऽपि नैमित्तिकः प्राप्तो, विदेशात्तस्य सद्मनि । तातेन दर्शिता तस्मै, सुलयोर्जन्मपत्रिका ॥ ९७ ॥ स बभाषे च तां दृष्ट्वा, धूनयन् निजमस्तकम् । एते तव सुते भिल्लुवल्लभे भो भविष्यतः ॥ ९८ ॥ श्रुत्वैवं देवशम्र्मापि, चिन्तयामास दुःखितः । धिग् धिग्मे यत् सुते एते, कुलीने तत्प्रिये कथम् ?॥९९॥ ततस्तेन धरापीठे, बहवश्चिन्तिता वराः । तयोः कर्मानुभावेन, वरः कोऽपि न मन्यते ॥ ६०० ॥ काव्यम् - पातालमाविशतु यातु सुरेन्द्रलोक-मारोहतु क्षितिधराधिपतिं च मेरुम् ।
मन्त्रौषधैः प्रहरणैः प्रकरोतु रक्षां यद्भावि तद्भवति नात्र विचारहेतुः ॥ १ ॥ तातेन मातृशालायाः, प्रेषिते मातुलालये । शुभेऽह्वयचलतां मार्गे, भिल्लघाट्यमिलत्तयोः ॥ २ ॥
For Private & Personal Use Only
ainelibrary.org