SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Jain Education धन्योऽहं यन्मया दत्तं यावदेवमचिन्तयत् । तावच्छासन देव्यागात्, स्वप्नस्ते दर्शितो यया ॥ ७५ ॥ सा वीरधवलं प्रोचे, धन्योऽसि त्वं च भाग्यवान् । दत्तं तुभ्यं मया राज्यं, श्रीचन्द्रधवलस्य हि ॥७६॥ ततो देवतयाऽत्रैष, आनीतः सुरसेवितः । श्रीवीरधवलः सोऽयं, तस्मै राज्यं ददौ नृपः ॥ ७७ ॥ जग्राहाथ व्रतं राजा, धर्म्मदत्तश्च सप्रियः । श्रीवीरधवलो राजा, चक्रे तेषां व्रतोत्सवम् ॥ ७८ ॥ तेषां गृहीतदीक्षाणां व्रतशिक्षां ददौ गुरुः । धर्मशिक्षां च भूपस्य प्राप्ता सा प्राज्य पुण्यतः ॥ ७९ ॥ धर्मो यस्य पिता क्षमा च जननी भ्राता मनः संयमः, सूनुः सत्यमिदं दया च भगिनी नीरागता गेहिनी । शय्या भूमितलं दिशोऽपि सदनं (वसनं ) ज्ञानामृतं भोजनं, यस्यैतानि सखे ! कुटुम्बमनघं तस्येह कष्टं कथम् ? ॥ ८० ॥ यतः - धर्मादवाप्यते राज्यं, धर्मात्सुखफलोदयः । धर्म्मादवाप्यते सिद्धिस्तस्माद्धर्म्म समाचर ॥ ८१ ॥ मर्कट्यपि गुरून् दृष्ट्वा, दृष्ट्वा धनवतीव्रतम् । जातिस्मरणयोगेन, प्रबुद्धा गुरुवाक्यतः ॥ ८२ ॥ For Private & Personal Use Only lainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy