SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ महा. ॥७४॥ तद्दिने भूभुजा रात्रौ, छन्नं विचरता पुरे । चौरो मुक्तः सुतेनेति, स्वरूपं ज्ञातमात्मना ॥ ६६ ॥ कुपितेन सुतस्तेन, देशान्निष्कासितो द्रुतम् । स वीरधवलो भ्राम्यन् , गतो भद्दलके पुरे ॥ ६७ ॥ क्षुधाक्षामः स भिक्षार्थ, प्रविष्टो रङ्गवत्पुरे। किं न कुर्य्यान्नरो वामे, विधी जाते ह्यपुण्यतः ॥ ६८ ॥ ___काव्यम्-यस्य पादयुगपर्युपासना, नो (नो) कदापि रमया विरम्यते । __ सोऽपि यत्परिदधाति कम्बलं, तद्विधेरधिकताऽधिकं बलम् ॥ ६९ ॥ भिक्षायै भ्रमता तेन, कस्मिन्पर्वणि तद्दिने । संप्राप्ताः सक्तवः पश्चात्तान्नीत्वाऽगात्सरोवरे॥ ५७० ॥ सक्तून गुडाम्बुना कृत्वा, मिश्रितान् स व्यचिन्तयत्।यद्येति साम्प्रतं पात्रं, तस्मै सक्तून् ददाम्यहम्७१ तावत्तद्भाग्ययोगेन, कोऽपि मासोपवासकृत् । साधुरागाच्चरन्मार्गे, तं दृष्टा सोऽब्रवीन्मुदा ॥७२॥ अद्य पूर्वसुकृतं फलितं मे, लब्धमद्य वहनं भववा! । अद्य चिन्तितमणिः करमागाद्वीक्षितो यदि भवान्मुनिराजः ॥ ७३ ॥ इत्युक्त्वा सक्तुपिण्डं तमुत्पाट्य प्रासुकं ददौ । गृहीत्वा तं ययौ साधुः, शेषपिण्डमभुक्त सः ॥७॥ ॥ ७ ॥ Jain Education a l For Private & Personal Use Only SUjainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy