SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Jain Education Int स्वं निन्दन् जीवघातस्य, नियमं ( व्रतं जग्राह सर्वदा । पापर्धेश्च निवृत्तोऽसौ दयालुर्गृहमागतः ॥५५॥ अन्यदा नागरनरैर्विज्ञतो नरनायकः । नगरं मुषितं चौरैः, स्वामिन्नित्यवधारय ॥ ५६ ॥ आरक्षकस्य राज्ञोक्तं, पुररक्षां करोषि न ? । तेनोक्तं क्रियते देव ! दुर्ग्राह्यस्तस्करः परम् ॥ ५७ ॥ पौराणां कथितं राज्ञाऽद्याहं बनामि तस्करम् । हर्षिताः वालिताः पौराः, सायं मुक्ताश्चतुष्किकाः ॥५८॥ | राज्ञादिष्टः कुमारोऽथ, भटयुक्तः पुरेऽभ्रमत् । भटास्त्रिकचतुष्केषु, चरवृत्त्या चरन्तिके ॥ ५९ ॥ ततो दैववशात्को ऽपि, सुभटेस्तस्करो धृतः । आनीतश्च कुमाराग्रे, बद्धः सुदृढबन्धनैः ॥ ५६० ॥ चौर्यपापद्रुमस्येह, वधबन्धादिकं फलम् । जायते परलोके तु, फलं नरकवेदना ॥ ६१ ॥ कुमारोऽचिन्तयञ्च्चौरं राजा प्रातर्हनिष्यति । पञ्चेन्द्रियवधात्पापं निश्चितं मे भविष्यति ॥ ६२ ॥ विचिन्त्यैवं कुमारेण, चौरं प्रतीति भाषितम् । अरे त्वामद्य मुञ्चामि मा कार्षीश्चौरिकां पुनः ॥ ६३ ॥ ओ इत्युक्ते विमुक्तोऽसौ, तत्क्षणादगमत् क्वचित् । चौरो मुक्तो नृपाग्रे न वक्तव्यो वारिता भटाः ॥६४॥ प्रभाते भूभुजा पृष्टं, न प्राप्तः किं ? मलिम्लुचः । भटैरुक्तं न लब्धोऽय, विलक्षोऽभूत्तदा नृपः ॥ ६५ ॥ For Private & Personal Use Only ainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy