________________
महा.
राज्याहः कोऽपि नायात, इति यावद्वदन्ति ते । दिव्यतूर्यरवस्तावदभवत्पूर्वदिगमुखे ॥ ४५ ॥ ॥७३॥ विस्मिता मानवाः पूर्व, दिशं पश्यन्ति सर्वतः। तावत् श्वेतगजारूढ-प्रौढच्छत्राभिशोभितः ॥ ४६॥
चामरैर्वीज्यमानश्च, पार्श्वयोरुभयोरपि । देवदुन्दुभिवादित्रगीतनृत्योत्सवान्वितः ॥ ४७ ॥ दिव्यरूपधरः कोऽपि, मानवः सुरसेवितः।अकस्मादागतस्तत्रोत्ततार च रयाद्वजात् ॥४८॥ त्रिभिर्विशेषकम् । तिस्रः प्रदक्षिणा दत्वा, नत्वा गुरुमुपाविशत् । धराधवं गुरुः प्राहायं वीरधवलस्तव ॥ १९ ॥ कोऽयं कीदृग् ? नृपेणोक्तं, गुरुराह निशम्यताम् । सिन्धौ वीरपुरं रम्यं, तत्र सिंदशिखो नृपः ॥५५०॥ प्रिया प्रेमवती तस्य, सत्प्रेमरसपद्मिनी । वीरानो वीरधवलो, नामतोऽभूत्सुतस्तयोः ॥ ५१ ॥ मृगयाव्यसनासक्तो, गर्भिणी सोऽन्यदा वने । मृगी बाणेन विव्याध, तद्गर्भश्चापतद् बहिः ॥ ५२ ॥ स्फुरन्तं वीक्ष्य भ्रूणं तं, सदयोऽसौ व्यचिन्तयत् । घिग्मां येन कृतं निन्यं, कम्मैतबालहत्यया ॥५३॥ यतः-रसातलं यातु यदत्र पौरुषं, कुनीतिरेषा शरणो ह्यदोषवान् ।
निहन्यते यद्वलिनापि दुर्बलो, हहा महाकष्टमराजकं जगत् ॥ ५४ ॥
॥७३॥
Jain Education
a l
For Private & Personal Use Only