SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ धर्म ॥७२॥ यतः-शशिनि खलु कलङ्घ कण्टकं पद्मनाले, जलधिजलमपेयं पण्डिते निर्धनत्वम् । दयितजनवियोगो दुर्भगत्वं सुरूपे, धनवति कृपणत्वं रत्नदोषी कृतान्तः ॥ २७ ॥ त्वया प्रवर्तयाञ्चक्रे, स्वामिन्संवत्सरं निजम् । तथापि नन्दनो नाभूदहो कर्मबलं महत् ॥२८॥ यस्य कस्यापि निन्द्यस्य, राज्यं दातुं न युज्यते । त्वमेव सुचिरं तेन, कुरु राज्यं नराधिप ! ॥ २९॥ इत्युक्त्वा मन्त्रिणो जग्मुः, सायं राजा स्वचेतसि । स्मृत्वा शासनदेवीं स,शुचिः सुप्तः समाहितः५३० रात्रेश्चतुर्थयामेऽथ, स्वप्नमेवं ददर्श सः । कापि स्त्री वररूपाढ्या, दिव्याभरणभूषिता ॥ ३१॥ इदं नृपं प्रति प्राह, कथं चिन्तातुरोऽसि भोः ! । तव राज्यं मया वीरधवलाय ददे स्वयम् ॥ ३२ ॥ क्षिप्यते वरमालैषा, कण्ठे ते संयमश्रियः । इत्युक्त्वा सा गता राजा, प्रबुद्धोऽचिन्तयत् हृदि ॥३३॥ को वीरधवलः प्रोक्तः? कास्त्यसौ कस्य नन्दनः? |श्रीगुरुः पृच्छयते ह्येतत्, तं विना कोऽपि वेत्ति न३४ भूपः पप्रच्छ भगवन् , ! को वीरधवलो बली? । मद्राज्यभारधौरेयो, देव्या प्रोक्तो भविष्यति ॥३५॥ गुरुः प्राह प्रजाधीश!, संयमायोद्यतो भव । त्वद्वतावसरे तस्यागमोऽकस्माद्भविष्यति ॥ ३६ ॥ ॥७२॥ Jain Education For Private Personal use only ldainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy