SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Jain Education 1 | पुरा साधुसंविभागेऽतिचारा अन्तरे कृताः । तेनायमन्तरे दुःखी, जातो दानस्य दूषणात् ॥ १६ ॥ साधुभ्यो दापिता भावात्, षोडशैव च मोदकाः । षोडशस्वर्णकोटीश एवाभूदिति पुण्यतः ॥ १७ ॥ पुत्रजीवसुरश्च्युत्वा राजंस्त्वं पुण्यभागभूः । असङ्घयमुनिदानेनाक्षयस्वर्णनरोऽभवत् ॥ १८ ॥ इति श्रुत्वा धराधीशश्चिन्तयामास चेतसि । धर्म एव सदा येषां लक्ष्मीर्वसति तद्गृहे ॥ १९ ॥ परं मोक्षं विना सौख्यं, शाश्वतं न भवेत् क्वचित् । चारित्रञ्च विना मोक्षः, प्राप्यते नैव जन्तुभिः ५२० दारिद्र्यं देहिनां तावन्न यावत् कल्पपादपः । भविनां भवभीस्तावत्, यावन्नैवाप्यते व्रतम् ॥ २१ ॥ भवाब्धितरणे पोतं, सेतुं संसारसागरे । सिद्धिसौधाधिरोहस्य, सोपानमिव सद्व्रतम् ॥ २२ ॥ गुरुं प्रोचे गृहीष्येऽहं धर्म्मदत्तयुतो व्रतम् । भगवन्यावदायामि, राज्यचिन्तां विधाय च ॥ २३ ॥ त्वयाऽत्र स्थीयतां तावत्कृपां कृत्वा ममोपरि । गुरुराह महीनाथ ! पुनर्मा भूः प्रमादवान् ॥२४॥ युग्मम् | धर्म्मदत्तयुतो राजा, गृहे गत्वा च मन्त्रिणः । आहूयोवाच राज्यं मे, कस्य देयं तदुच्यताम् ॥ २५ ॥ ऊचुस्ते कथ्यते किं ते, दुर्दैवे वक्रतां गते । रत्नदोषी विधिर्येन, न दत्तस्तव नन्दनः ॥ २६ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600090
Book TitleDharm Kalpadrum Nam Mahakavyam
Original Sutra AuthorN/A
AuthorUdaydharm Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages434
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy