________________
॥ देवाङ्गनाद्या एवं वदन्ति ॥ ॥७१॥ अद्य नाथ ! वयं धन्याः, सफलं चाद्य जीवितम् । अस्माकं यत्त्वया स्वर्गः, संभवेन पवित्रितः ॥ ७॥
प्रसीद जय जीव त्वं, देव ! पुण्यस्तवोद्भवः । भव प्रभुः समग्रस्य, स्वर्गलोकस्य सम्प्रति ॥८॥ . नवीनदेवो वक्ति॥ अहो तपः पुराचीर्ण, मयाऽन्यजनदुश्वरम् । वितीर्णं चाभयं दानं, प्राणिनां जीवितार्थिनाम् ॥९॥ निर्दग्धं विषयारण्यं, मारवैरी निपातितः । कषायतरवश्छिन्ना, रागशत्रुर्नियन्त्रितः ॥ ५१०॥ रागादिदहनज्वाला, न प्रशाम्यन्ति देहिनाम् । सद्धत्तवारिसिक्तास्ताः, शमयांचक्रिरे मया ॥ ११ ॥ क्वचिद्गीतैः क्वचिन्नृत्यैः, क्वचिद्वाक्यैर्मनोहरैः । क्वचिद्विलासिनीवातक्रीडाशृङ्गारदर्शनैः ॥ १२ ॥ दशाङ्गभोगजैः सौख्यैर्लोभ्यमानाः क्वचित् क्वचित्। वसन्ति स्वगिणः स्वर्गे, कल्पनातीतवैभवाः ॥१३॥ ॥ ७१ ॥ इच्छासंपन्नसर्वार्थमनोहारि सुखामृतम् । निर्विघ्नमुपभुञ्जाना, गतं जन्म न जानते ॥ १४ ॥ इत्थं सुरसुखं भुक्त्वा, व्युत्वा चात्र पुरे पुरे । पितृजीवो धर्मदत्तो, जातः श्रीपतिश्रेष्ठिसूः ॥ १५ ॥
3܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
Jan Education Inter
For Private 3 Personal Use Only
Kinelibrary.org